मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ६

संहिता

पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः ।
इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥

पदपाठः

पव॑स्व । वा॒ज॒ऽसात॑मः । प॒वित्रे॑ । धार॑या । सु॒तः ।
इन्द्रा॑य । सो॒म॒ । विष्ण॑वे । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ॥

सायणभाष्यम्

हे सोम वाजसातमः अतिशयेनान्नस्यदाता सुतोभिषुतस्त्वं पवित्रे धारयासह पवस्व क्षर । ततः हे सोम त्वं इन्द्राय विष्णवेच अन्येभ्योमित्रादिभ्योदेवेभ्यश्च मधुमत्तमः अति शयेन माधुर्योपेतोभव ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८