मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ७

संहिता

त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुहः॑ ।
व॒त्सं जा॒तं न धे॒नव॒ः पव॑मान॒ विध॑र्मणि ॥

पदपाठः

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ ।
व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥

सायणभाष्यम्

हे पवमानसोम विधर्मणि विविधं हविषांधारके यज्ञे अद्रुहः द्रोहवर्जितः मातरोमातृ- भूता वसतीवर्यः हरिं हरितवर्णं त्वां पवित्रे स्थितं रिहन्ति लिहन्ति आस्वादयन्ति । कथमिव यथा धेनवोजातंवत्सं लिहन्ति तथा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८