मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ८

संहिता

पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभि॑ः ।
शर्ध॒न्तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥

पदपाठः

पव॑मान । महि॑ । श्रवः॑ । चि॒त्रेभिः॑ । या॒सि॒ । र॒श्मिऽभिः॑ ।
शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥

सायणभाष्यम्

हे पवमान महि महत् श्रवः श्रवणीयमन्तरिक्षं चित्रेभिश्चित्रैर्नानाषिधैश्चायनीयैर्वा र- श्मिभिः परियासि परिगच्छसि । तथा शर्धन् वेगंकुर्वस्त्वं दाशुषो हविर्दत्तवतोयजमानस्य- गृहे स्थित्वा विश्वानि सर्वाणि तमांसि तमोरूपाणि रक्षांसि जिघ्नसे हंसि एवं द्यावा- पृथिव्योः वर्तसे इत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८