मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ९

संहिता

त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे ।
प्रति॑ द्रा॒पिम॑मुञ्चथा॒ः पव॑मान महित्व॒ना ॥

पदपाठः

त्वम् । द्याम् । च॒ । म॒हि॒ऽव्र॒त॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ ।
प्रति॑ । द्रा॒पिम् । अ॒मु॒ञ्च॒थाः॒ । पव॑मान । म॒हि॒ऽत्व॒ना ॥

सायणभाष्यम्

हे महिव्रत महाकर्मन् बहुविधकर्मन् सोम त्वं द्यां द्युलोकंचपृथिवींच अतिजभ्रिषे अ- त्यन्तंबिभर्षि । डुभृञ् धारणपोषणयोः । तस्यछन्दसिलिटि सर्वविधीनांछन्दासविकल्पितत्वा- दत्र इडागमः । अन्तरिक्षे सोमात्मनेति पृथिव्यां लतारूपेणेति एवंलोकद्वयवर्तित्वम् । हे पव- मान क्षरन् सोम त्वं महित्वना महत्त्वेनयुक्तःसन् द्रापिं कवचं प्रत्यमुंचथाः प्रतिमुंचसि संवृणोषि ॥ ९ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण साय- णाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके चतुर्थोध्यायः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८