मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् २

संहिता

यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः ।
इन्दु॒रश्वो॒ न कृत्व्य॑ः ॥

पदपाठः

यः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः ।
इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥

सायणभाष्यम्

सुतोभिषुतः कृत्व्यः कृत्वीति कर्मनाम कर्मणि साधुर्यइन्दुः सोमः पावकया पापानां शोधकया धारया परिप्रस्यन्दते परितः प्रक्षरति । कथमिव अश्वोन अश्वोयथा वेगेन प्रग- च्छंति तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः