मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ८

संहिता

समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः ।
सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ॥

पदपाठः

सम् । ऊं॒ इति॑ । प्रि॒याः । अ॒नू॒ष॒त॒ । गावः॑ । मदा॑य । घृष्व॑यः ।
सोमा॑सः । कृ॒ण्व॒ते॒ । प॒थः । पव॑मानासः । इन्द॑वः ॥

सायणभाष्यम्

प्रियाः प्रियतमाः घृष्वयः अत्यन्तदीप्ताः यद्वा अहं प्रथमतः स्तौमि अहं पुरस्तात् स्तौमीति परस्परं स्पर्धमानाः गावः स्तुतिलक्षणावाचः सोमस्य मदाय मदार्थं समनूषत संस्तुवन्ति । उःप्रसिद्धौ । यद्वा गावोधेनवः सोमस्य मदाय शब्दायन्ते ततः पवमानासः पूयमानाः इन्दवोदीप्ताः सोमासः सोमाः पथोमार्गान् कृण्वते रक्षणार्थं कुर्वन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः