मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ९

संहिता

य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् ।
यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥

पदपाठः

यः । ओजि॑ष्ठः । तम् । आ । भ॒र॒ । पव॑मान । श्र॒वाय्य॑म् ।
यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन॑ । वना॑महै ॥

सायणभाष्यम्

हे पवमान पूयमान सोम ओजिष्ठः ओजस्वितमोयस्त्वदीयोरसोस्ति तं श्रवाय्यं श्रव- णीयं रसं आभर अस्मभ्यमाभर । किंच योरसः पञ्चचर्षणीः पञ्चजनान् निषादपञ्चमान् चतुरोवर्णान् अभितिष्ठति । अपिच येन रसेन वयं रयिं धनं च वनामहै संभजामहै यद्वा येन त्वां रयिं याचामहै तमाभर ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः