मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १२

संहिता

ए॒ते पू॒ता वि॑प॒श्चित॒ः सोमा॑सो॒ दध्या॑शिरः ।
सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥

पदपाठः

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।
सूर्या॑सः । न । द॒र्श॒तासः॑ । जि॒ग॒त्नवः॑ । ध्रु॒वाः । घृ॒ते ॥

सायणभाष्यम्

पूताः पवित्रेण परिपूताः विपश्चितोमेधाविनोदध्याशिरः दध्यामिश्रणाः घृते वसतीवर्या ख्ये उदके जिगत्नवोगमनशीला ध्रुवाः तत्र स्थैर्येण वर्तमानाः एते सोमासः सोमाः सूर्या- सोन सूर्याइव दर्शतासः पात्रेषु सर्वैर्दर्शनीया भवन्ति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः