मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १३

संहिता

प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।
अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥

पदपाठः

प्र । सु॒न्वा॒नस्य॑ । अन्ध॑सः । मर्तः॑ । न । वृ॒त॒ । तत् । वचः॑ ।
अप॑ । श्वान॑म् । अ॒रा॒धस॑म् । ह॒त । म॒खम् । न । भृग॑वः ॥

सायणभाष्यम्

सुन्वानस्याभिषूयमाणस्य अन्धसोदनीयस्य सोमस्य तत्प्रसिद्धं वचः वचनं घोषं मर्तो- मारकः कर्मविघ्नकारी श्वा न प्रवृत नभजतां नश्रृणोत्विति यावत् । तथा हे स्तोतारः अराधसं राधककर्मरहितं तं श्वानं अपहत । तत्र दृष्टान्तः—मखं न यथा पुरा अपराद्ध- मखं एतन्नामानं भृगवोपहतवन्तः तथा अपहतेत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः