मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १४

संहिता

आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्यो॑ः ।
सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म् ॥

पदपाठः

आ । जा॒मिः । अत्के॑ । अ॒व्य॒त॒ । भु॒जे । न । पु॒त्रः । ओ॒ण्योः॑ ।
सर॑त् । जा॒रः । न । योष॑णाम् । व॒रः । न । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

जामिबंधुभूतो देवानां सोमः अत्के आच्छादके पवित्रे आव्यत आवृणोति संबद्धोभव- ति । तत्र दृष्टान्तः—भुजेन यथा ओण्योः रक्षकयोः मातापित्रोर्भुजे पुत्र आवृणोति तद्वत् । ततः सोयं सोमः योनिं स्वस्थानभूतं कलशमासदं आसत्तुं सरत् सरति । तत्र दृष्टान्तद्वयं- जारोन यथा जारोयोषणां असतीं स्त्रियं प्राप्तुं सरति यथावा वरः कन्यां प्राप्तुं गच्छति तद्वत् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः