मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १५

संहिता

स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी ।
हरि॑ः प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म् ॥

पदपाठः

सः । वी॒रः । द॒क्ष॒ऽसाध॑नः । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ ।
हरिः॑ । प॒वित्रे॑ । अ॒व्य॒त॒ । वे॒धाः । न । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

दक्षसाधनः बलसाधनः ससोमः वीरः समर्थो भवति । यः सोमः रोदसी द्यावापृथि- व्यौ वितस्तंभ स्वतेजसा व्यस्तभ्रात् आच्छादयतीत्यर्थः । किंच हरिर्हरितवर्णः सोमः वे- धान विधाता यजमानः यथा स्वगृहं असीदति तद्वत् योनिं स्वस्थानं कलशमासदं आस- त्तुं पवित्रे अव्यत आवृणोति संबद्धोभवति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः