मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् १

संहिता

क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् ।
विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥

पदपाठः

क्रा॒णा । शिशुः॑ । म॒हीना॑म् । हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् ।
विश्वा॑ । परि॑ । प्रि॒या । भु॒व॒त् । अध॑ । द्वि॒ता ॥

सायणभाष्यम्

क्राणा करोतेः शानचि बहुलं छन्दसीति विकरणस्य लुक् सुपांसुलुगिति सुपआकारा- दशः । यज्ञं कुर्वाणः महीनां महतीनां मंहनीयानांवा अपां शिशुः पुत्रस्थानीयः सोमः ऋतस्य यज्ञस्य दीधितिं प्रकाशकं धारकं वा स्वीयं रसं हिन्वन् प्रेरयन् विश्वा सर्वाणि प्रिया प्रियाणि हवींषि परिभुवत् परिभवति व्याप्नोति । अधापिच द्विता द्विधाभवति दिविच पृथिव्यां च वर्ततइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः