मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् २

संहिता

उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् ।
य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ॥

पदपाठः

उप॑ । त्रि॒तस्य॑ । पा॒ष्योः॑ । अभ॑क्त । यत् । गुहा॑ । प॒दम् ।
य॒ज्ञस्य॑ । स॒प्त । धाम॑ऽभिः । अध॑ । प्रि॒यम् ॥

सायणभाष्यम्

त्रितस्य मम यज्ञे गुहा गुहायां हविर्धाने वर्तमानयोः पाष्योः पाषाणवत् दृढयोः अ- धिषवणफलकयोः पदं स्थानं सोमो यद्यदा उपाभक्त समभजत । अधानन्तरं यज्ञस्य धा- मभिर्धारकैः सप्त सप्तभिः छन्दोभिः गायत्र्यादिभिः प्रियं प्रीणयितारं सोममभिष्टुवन्ति ऋत्विजः । अपिवा सप्तसर्पणशीलैः वसतीवर्यादिभिरुदकैः सोममभिषुण्वन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः