मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ३

संहिता

त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् ।
मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतु॑ः ॥

पदपाठः

त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ । र॒यिम् ।
मिमी॑ते । अ॒स्य॒ । योज॑ना । वि । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

हे सोम त्रितस्य मम यज्ञस्य स्वभूतानि त्रीणिसवनानि धारया आत्मीयया विधारय । किंच पृष्टेषु सामसु रयिं दातारमिन्द्रं एरय आगमय सुक्रतुः सुप्रज्ञः स्तोता अस्येन्द्रस्य योजना योजनानि योजनकारीणि स्तोत्राणि विमिमीते करोति यस्मादेवं तस्मादिन्द्रं सामसु प्रेरयेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः