मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ४

संहिता

ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।
अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥

पदपाठः

ज॒ज्ञा॒नम् । स॒प्त । मा॒तरः॑ । वे॒धाम् । अ॒शा॒स॒त॒ । श्रि॒ये ।
अ॒यम् । ध्रु॒वः । र॒यी॒णाम् । चिके॑त । यत् ॥

सायणभाष्यम्

जज्ञानं प्रादुर्भूतं वेधां कर्मणोविधातारं सोमं सप्त सप्तसंख्याकामातरो गंगाद्यानद्यः स- प्तच्छंदांसिवा श्रिये यजमानानां ऎश्वर्यार्थं आशासत अनुशासन्ति अनुशासनं कुर्वन्ति । शास्तेर्लङि व्यत्ययेनात्मनेपदम् । यद्यस्मात् ध्रुवोयं सोमः रयीणां धनानि चिकेत जानाति । तस्मादस्यानुशासने कृते यजमानानां धनादिसमृद्धिर्भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः