मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ६

संहिता

यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् ।
क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म् ॥

पदपाठः

यम् । ई॒मिति॑ । गर्भ॑म् । ऋ॒त॒ऽवृधः॑ । दृ॒शे । चारु॑म् । अजी॑जनन् ।
क॒विम् । मंहि॑ष्ठम् । अ॒ध्व॒रे । पु॒रु॒ऽस्पृह॑म् ॥

सायणभाष्यम्

ऋतावृधः यज्ञस्यवर्धयित्र्यः वसतीवर्याख्याआपः गर्भं गर्भस्थानीयं ईमेनं यं सोमं अध्वरे यज्ञे दृशे दर्शनाय अजीजनन् उदपादयन् । कीदृशं चारुं सर्वेषां कल्याणरूपं कविं क्रान्तप्रज्ञं मंहिष्ठं पूज्यतमं दातृतमंवा । अतएव पुरुस्पृहं बहुभिः स्पृहणीयं सोमं देवाः सेवन्तइति पूर्वेण समन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः