मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ८

संहिता

क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑रृ॒णोरप॑ व्र॒जं दि॒वः ।
हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥

पदपाठः

क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः ।
हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् । प्र । अ॒ध्व॒रे ॥

सायणभाष्यम्

हे सोम त्वं क्रत्वा कर्मणा ज्ञानेनवा शुक्रेभिः शुक्रैर्दीप्यमानैः अक्षभिरक्षैः इन्द्रियैरि- वाश्नुवानैः स्वतेजोभिः व्रजं अंधकारसमूहं दिवोन्त्रिक्षात् अपऋणोः अपगमय विनाशय । ऋणुगतौ तानादिकः । किंकुर्वन् अध्वरे हिंसारहिते यज्ञे ऋतस्य यज्ञस्य दीधितिं धारकं स्वीयं रसं प्रहिन्वन् प्रेरयन् अनेन लोकद्वयवर्तित्वमभिहितं ॥ ८ ॥

प्रपुनानायेति षळृचं सप्तमं सूक्तम् । आप्त्यस्य द्वितस्यार्षं पूर्ववत् छंदोदेवते । तथाचानु क्रम्यते—प्रपुनानायषट् द्वितआप्त्यइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः