मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०३, ऋक् १

संहिता

प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् ।
भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥

पदपाठः

प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् ।
भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥

सायणभाष्यम्

द्वितोनामऋषिः स्वात्मानं प्रत्याह । पुनानाय पवित्रेण पूयमानाय वेधसे कर्मणोवि- धात्रेमतिभिर्जुजोषते प्रीयमाणाय । यद्वा मतिभिः स्तुतिभिः स्तोतृभिः सह जुजोषते प्रीणयित्रे सोमाय उद्यतमुद्युक्तं वचः प्रभर प्रकर्षेण संपादय अभिष्टुहीत्यर्थः । तत्र दृष्टान्तः—भृतिंन यथा भृतकाभृतिं संपादयन्ति तद्वत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः