मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०३, ऋक् २

संहिता

परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति ।
त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरि॑ः ॥

पदपाठः

परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।
त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥

सायणभाष्यम्

गोभिर्गोविकारैः क्षीरादिभिः अंजानः अज्यमानः सोमः अव्यया अविमयानि वाराणि वालानि पवित्राणि पर्यर्षति परिगच्छति । अपिच हरिर्हरितवर्णः सोमः पुनानः पूयमानः सन् त्री त्रीणि सधस्था सहतिष्ठंत्यत्रेति सधस्थं स्थानं द्रोणकलशाधवनीयपूतभृदात्मकानि त्रीणि स्थानानि कृणुते करोति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः