परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति ।
अ॒भि वाणी॒रृषी॑णां स॒प्त नू॑षत ॥
परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ ।
अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥
ससोमः अव्यये अविमये वारे वाले पवित्रे मधुश्चुतं मधुररसस्य च्यावयितारं कोशं द्रोणकलशं प्रति आत्मीयं रसं पर्यर्षति गमयति तमिमं सोमं ऋषीणां सप्तवाणीः छन्दां- सि अभिनूषत अभिष्टुवन्ति । नूस्तवने कुटादिः ॥ ३ ॥