मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०३, ऋक् ४

संहिता

परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः ।
सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरि॑ः ॥

पदपाठः

परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः ।
सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥

सायणभाष्यम्

हरिर्हरितवर्णः ससोमः पुनानः पूयमानः सन् चम्वोरधिषवणफलकयोः परिविशत् परिविशति । कीदृशः मतीनां स्तुतीनां नेता यद्वा मतीनां स्तोतॄणां स्वकर्मणि उपनेता विश्वदेवः सर्वदेवः सोमेभिषूयमाणे सति इन्द्रादयः सर्वेदेवाः सोमं प्रत्यागच्छन्तिखलु त- स्मात् सर्वदेवोपेतः अतएव अदाभ्यः अहिंस्यः कैश्चिदपि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः