मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०३, ऋक् ५

संहिता

परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् ।
पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥

पदपाठः

परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् ।
पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः॑ । अम॑र्त्यः ॥

सायणभाष्यम्

हे सोम त्वं इन्द्रेण सरथं समानं रथमारुह्य दैवीः देवानां संबन्धीनि स्वधाः बलानि अनु देवसेनाः परियाहि परिगच्छ । कीदृशः पुनानः पूयमानः वाघद्भिः वाघतइति ऋत्विङ्गाम हविषां प्रेरकैरृत्विग्भिर्वाघत् ऊह्यमानां अमर्त्यः मनुष्यधर्मरहितः यद्वा वाघ- द्भिरृत्विग्भिः पुनानः पूयमानः वाघत् स्तोतॄणां यष्टॄणां धनादीनि प्रापयन् परिगच्छ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः