परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्य॑ः सु॒तः ।
व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥
परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥
सप्तिर्न अश्वइव वाजयुः युद्धमिच्छन् देवोदीप्यमानः देवेभ्योदेवार्थं सुतोभिषुतः व्यान शिः पात्रेषु व्यापी पवमानः पवित्रेण पूयमानः एतादृशः सोमः विविधं परिधावति प- रितः पात्राण्यभिगच्छति । व्यानशिः अशूव्याप्तौ आदृगमहनेत्यत्र उत्सर्गश्छन्दसि सदादि- भ्यो दर्शनादिति कित् प्रत्ययः अश्नोतेश्चेति नुडागमः ॥ ६ ॥
सप्तमेनुवाके एकादशसूक्तानि तत्र सखायइति षळृचं प्रथमं सूक्तं काण्वौ पर्वतनार- दावृषी । अथवा कश्यपस्यपुत्र्यौ शिखंडिन्याख्ये द्वे अप्सरसावस्य सूक्तस्य द्रष्ट्र्यौ पूर्व- वच्छन्दोदेवते । तथानुक्रम्यते—सखायः पर्वतनारदौ काश्यपौ द्वेशिखंडिन्यौ वाप्सरसा- विति । गतः सूक्तविनियोगः ।