मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०४, ऋक् ३

संहिता

पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ ।
यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥

पदपाठः

पु॒नात॑ । द॒क्ष॒ऽसाध॑नम् । यथा॑ । शर्धा॑य । वी॒तये॑ ।
यथा॑ । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः ॥

सायणभाष्यम्

दक्षसाधनं बलस्य साधनं धनादिवृद्धेर्वा साधकं सोमं पुनात पवित्रेण पुनीत । पुञ् पवने क्र्यादिः तस्माल्लोटि तप्तनप्तनथनाश्चेति तस्य तबादेशः पित्वादीत्वाभावः । असौ सोमः शर्धाय वेगार्थं वीतये देवानां पानार्थं यथा भवति यथावा मित्राय वरुणायच शंतमः अतिशयेन सुखं करोति तथा पुनीतेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः