स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि ।
सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥
सः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वऽप्स॑राः । अ॒सि॒ ।
सखा॑ऽइव । सख्ये॑ । गा॒तु॒वित्ऽत॑मः । भ॒व॒ ॥
नः अस्मदादीनां मदानां मदकानां पते स्वामिन् हे इन्दो सोम सत्वं देवप्सराअसि प्सरइति रूपनाम दीप्तरूपोभवसि । सत्वं सखेव यथा सखा सुहृत् सख्ये मित्राय सत्यं मार्गं ज्ञापयति तद्वत् अस्माकमपि गातुवित्त्मः अत्यन्तं मार्गस्य लंभकोभव ज्ञापकोभव ॥ ५ ॥