मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् १

संहिता

तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत ।
शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभि॑ः ॥

पदपाठः

तम् । वः॒ । स॒खा॒यः॒ । मदा॑य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ ।
शिशु॑म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्तिऽभिः॑ ॥

सायणभाष्यम्

हे सखायः ऋत्विजोवोयूयं मदाय देवानां मदार्थं पुनानं पूयमानं तं अभिगायत अभिष्टुत तमिमं सोमं शिशुंन शिशुमिवालंकारैः क्षीरादिभिश्च यथा स्वादूकुर्वन्ति तद्वत् । यज्ञैर्हविर्भिर्मिश्रणैः गूर्तिभिः स्तुतिभिश्च स्वदयन्त स्वादूकुर्वन्ति ॥ १ ॥ प्रवर्ग्येभिष्टवे संवत्सइवमातृभिरित्येका । सूत्रंच—समीवत्समित्यनया सहोक्तम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः