मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् २

संहिता

सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते ।
दे॒वा॒वीर्मदो॑ म॒तिभि॒ः परि॑ष्कृतः ॥

पदपाठः

सम् । व॒त्सःऽइ॑व । मा॒तृऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ ।
दे॒व॒ऽअ॒वीः । मदः॑ । म॒तिऽभिः॑ । परि॑ऽकृतः ॥

सायणभाष्यम्

हिन्वानः प्रेर्यमाणः इंदुःसोमः वसतीवरीभिः समज्यते सम्यक् सिक्तोभवति । तत्र दृष्टान्तः—वत्सइव वत्सोयथा मातृभिः गोभिः समक्तोभवति तद्वत् । कीदृशः देवावीः देवा नां रक्षकः मदोमदकरः मतिभिः स्तुतिभिः परिष्कृतोलंकृतः भूषणार्थे संपर्युपेभ्यइति सुडागमः परिनिविभ्यइतिसुटः षत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः