मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् ४

संहिता

गोम॑न्न इन्दो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व ।
शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ॥

पदपाठः

गोऽम॑त् । नः॒ । इ॒न्दो॒ इति॑ । अश्व॑ऽवत् । सु॒तः । सु॒ऽद॒क्ष॒ । ध॒न्व॒ ।
शुचि॑म् । ते॒ । वर्ण॑म् । अधि॑ । गोषु॑ । दी॒ध॒र॒म् ॥

सायणभाष्यम्

हे सुदक्ष सुबल हे इन्दो सोम सुतोभिषुतस्त्वं नोस्माकं गोमत् यज्ञसाधनगोयुक्तं अश्ववदश्वयुक्तं धनं धन्व गमय धविर्गत्यर्थः भूवादिः । ततोहं शुचिं पूतं दीप्यमानंव ते तव वर्णं रसं गोषु गव्येषु क्षीरादिषु अधिदीधरं अधिधारयामि मिश्रयामि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः