मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् ५

संहिता

स नो॑ हरीणां पत॒ इन्दो॑ दे॒वप्स॑रस्तमः ।
सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥

पदपाठः

सः । नः॒ । ह॒री॒णा॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वप्स॑रःऽतमः ।
सखा॑ऽइव । सख्ये॑ । नर्यः॑ । रु॒चे । भ॒व॒ ॥

सायणभाष्यम्

हे हरीणां पते नः अस्मदीयानां हरितवर्णानां पशूनां स्वामिन् हे इन्दो सोम देव- प्सरस्तमः अतिशयेन दीप्तरूपोपेतः सत्वं नर्यः कर्मनेतृभ्यः ऋत्विग्भ्यः हितः सत्वं नो- स्माकं रुचे भव दीप्तिकरोभव । किमिव सखेव यथा सखासख्ये मित्राय दीप्तिकरोभवति तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः