मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ४

संहिता

प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म् ॥

पदपाठः

प्र । ध॒न्व॒ । सो॒म॒ । जागृ॑विः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥

सायणभाष्यम्

हे सोम जागृविर्जागरणशीलस्त्वं प्रधन्व प्रक्षर । हे इन्दो सोम इन्द्राय परिस्रव प- रितः पात्रेषु क्षर । किंच द्युमन्तं दीप्तियुक्तं स्वर्विदं सर्वस्य लंभकं शुष्मं शत्रूणां शोषकं बलं आभराहर ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः