मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ५

संहिता

इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।
स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥

पदपाठः

इन्द्रा॑य । वृष॑णम् । मद॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।
स॒हस्र॑ऽयामा । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

हे सोम त्वं वृषणं वर्षितारं मदं मदहेतुं रसं इन्द्रायेन्द्रार्थं पवस्व क्षर । कीदृशः वि- श्वदर्शतः सर्वैर्दर्शनीयः सहस्रयामा बहुमार्गः पथिकृत् यजमानानां सन्मार्गकरणशीलः विचक्षणः सर्वस्य विद्रष्टा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः