मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २

संहिता

नू॒नं पु॑ना॒नोऽवि॑भि॒ः परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः ।
सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥

पदपाठः

नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः ।
सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । म॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥

सायणभाष्यम्

हे सोम अदब्धः कैश्चिदप्यहिंसितः सुरभिन्तरः अत्यन्तं सुगन्धिः त्वं नूनमिदानीं पु- नानः पूयमानः सन् अविभिर्विवालकृतैः पवित्रैः तेभ्यः परिस्रव परितः क्षर सुतेचित् अभिषुते सति अंधसा सक्तुलक्षणेनान्नेन गोभिर्गोविकारैःक्षीरादिभिः श्रीणन्तः मिश्रयन्तो- वयं उत्तरमुद्गततरं अप्सु वसतीवरीषु संस्थितं त्वां मदामः मंदामहे स्तुमः ॥ २ ॥