मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ३

संहिता

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒ः क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥

पदपाठः

परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

सुवानोभिषूयमाणः सोमः चक्षसे सर्वेषां दर्शनाय परिस्रवति । कीदृशः देवमादनः देवानां तर्पयिता क्रतुः कर्ता इन्दुः पात्रेषु क्षरणशीलः दीप्तोवा विचक्षणः स्वर्वस्य विद्र- ष्टा ॥ ३ ॥