मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ४

संहिता

पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि ।
आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥

पदपाठः

पु॒ना॒नः । सो॒म॒ । धार॑या । अ॒पः । वसा॑नः । अ॒र्ष॒सि॒ ।
आ । र॒त्न॒ऽधाः । योनि॑म् । ऋ॒तस्य॑ । सी॒द॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ॥

सायणभाष्यम्

हे सोम पुनानः पूयमानस्त्वं अपउदकानि वसतीवर्याख्यानि वसानः आच्छादयन् धारया अर्षसि पवित्रं गच्छसि । ततः रत्नधाः रत्नानां दाता त्वं ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानमासीदसि हे देव द्योतमान सोम उत्सः प्रस्यन्दनशीलस्त्वं हिरण्ययः हिरण्मयः हिरण्यस्योत्पत्तिस्थानं खलु यद्वा देवानां हितरमणीयोभवसि ॥ ४ ॥