मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ५

संहिता

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् ।
आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥

पदपाठः

दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ।
आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

मधु मदकरं प्रियं प्रीणनकारि दिव्यं दिविभवं ऊधः सोमवल्लीलक्षणं दुहानः सोमः प्रत्नं पुरातनं सधस्थं सहतिष्ठन्तं स्थानमन्तरिक्षमासदत् आसीदति सदेर्लुङि रूपम् । अतः आपृच्छ्यं कर्मण्याप्रष्टव्यं धरुणं कमर्णोधारयितारं यजमानं वाजी अन्नवान् सोमः अर्षति तस्मै अन्नं दातुमभिगच्छति । कीदृशः नृभिः कर्मनेतृभिः ऋत्विग्भिः धूतः अदाभ्यः ग्रहे परिशोधितः । तैरेनं चतुराधूनोति प्रंचकृत्वः सप्तकृत्वोवेति आपस्तंबेन सूत्रितम् । विचक्षणः सर्वस्य विद्रष्टा ॥ ५ ॥