मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ७

संहिता

सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।
त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥

पदपाठः

सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः ।
त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥

सायणभाष्यम्

मीढ्वान् कामानां सेक्ता सोमोभवन् पवते क्षरति । कीदृशः गातुवित्तमः अत्यन्तं मार्ग- स्य लंभकः ऋषिः सर्वस्य प्रदर्शकः विप्रोमेधावी विचक्षणोविद्रष्टा । किंच कविः क्रान्त- प्रज्ञस्त्वं देववीतमः अत्यन्तं देवकामो भवोभवसि । अपिच दिवि द्युलोके सूर्यमारोहयः प्रादुर्भावयसि ॥ ७ ॥