मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ८

संहिता

सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नाम् ।
अश्व॑येव ह॒रिता॑ याति॒ धार॑या म॒न्द्रया॑ याति॒ धार॑या ॥

पदपाठः

सोमः॑ । ऊं॒ इति॑ । सु॒वा॒नः । सो॒तृऽभिः । अधि॑ । स्नुऽभिः॑ । अवी॑नाम् ।
अश्व॑याऽइव । ह॒रिता॑ । या॒ति॒ । धार॑या । म॒न्द्रया॑ । या॒ति॒ । धार॑या ॥

सायणभाष्यम्

सोतृभिरभिषुण्वद्भिरृत्विग्भिः सुवानोभिषूयमाणः सोमः अवीनां स्नुभिः । मांस्पृत्स्नूना- मुपसंख्यानमिति सानुशब्दस्य स्नुभावः समुच्छ्रितैर्वालैः पवित्रैरधियाति अधिकं गच्छति । उइति प्रसिद्धौ । अश्वयेव वडवयेव हरिता हरितवर्णया धारया याति मन्द्रया मदकारि- ण्याधारया द्रोणकलशमधिगच्छति ॥ ८ ॥