मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ११

संहिता

स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
अ॒नु॒माद्य॒ः पव॑मानो मनी॒षिभि॒ः सोमो॒ विप्रे॑भि॒रृक्व॑भिः ॥

पदपाठः

सः । म॒मृ॒जे॒ । ति॒रः । अण्वा॑नि । मे॒ष्यः॑ । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।
अ॒नु॒ऽमाद्यः॑ । पव॑मानः । म॒नी॒षिऽभिः॑ । सोमः॑ । विप्रे॑भिः । ऋक्व॑ऽभिः ॥

सायणभाष्यम्

वाजयुरन्नकामः अण्वानि अणूनि सूक्ष्माणि मेष्यः मेष्याः अवेः रोमाणि पवित्राणि तिरस्कुर्वन् व्यवधायकानि कुर्वाणः सन् आपवसे इतिशेषः । हरिर्हरितवर्णः ससोमः ममृजे परिशोध्यते अलंक्रियतेवा । तत्र दृष्टान्तः—सप्तिर्न यथा जयकामैः अश्वोमीह्ळे संग्रामे अलंक्रियते । कीदृशः अनुमाद्यः अनुमोदनीयः सर्वैः पवमानः मनीषिभिः ऋत्विग्भिः पूयमानः तथा ऋक्वभिः छन्दसि वनिपाविति वनिप् स्तुतिमद्भिः विप्रैर्मेधाविभिः अभि- ष्टुतः मृज्यते ॥ ११ ॥