मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १२

संहिता

प्र सो॑म दे॒ववी॑तये॒ सिन्धु॒र्न पि॑प्ये॒ अर्ण॑सा ।
अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुत॑म् ॥

पदपाठः

प्र । सो॒म॒ । दे॒वऽवी॑तये । सिन्धुः॑ । न । पि॒प्ये॒ । अर्ण॑सा ।
अं॒शोः । पय॑सा । म॒दि॒रः । न । जागृ॑विः । अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

सायणभाष्यम्

हे सोम देववीतये देवानां पानाय तदर्थं अर्णसा वसतीवर्याख्येनोदकेन प्रपिप्ये प्रप्या यसे । तत्रदृष्टान्तः—सिन्धुर्न यथा सिन्धुरुदकेनप्रपिप्ये प्र्प्यायते तद्वत् । प्यायतेर्लिटि लि- ड्यङोश्चेति पीभावः । ततः सत्वं मदिरोन मदकरः सुरादिरिव जागृविर्जागरणशीलः यद्वा नः संप्रत्यर्थे इदानीं मदकरोजागरणशीलस्त्वं अंशोः लताखंडस्य पयसा रसेन मधु- श्चुतं रसस्य क्षारयितारं कोशं द्रोणकलशं अच्छाभिगच्छसि ॥ १२ ॥