मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १५

संहिता

तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।
अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥

पदपाठः

तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ।
अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥

सायणभाष्यम्

पवमानः पूयमानः देवोद्योतमानः बृहत् अत्यन्तं ऋतं सत्यभूतं राजा सोमः समुद्र- मन्तरिक्षं कलशंवा ऊर्मिणा धारया तरत् तरति । हिन्वानः प्रेर्यमाणः ऋतं बृहत् अत्यन्तं सत्यभूतः ससोमः मित्रस्य वरुणस्य मित्रावरुणयोः धर्मणा धारणार्थं प्रार्षन् प्रगच्छति ॥ १५ ॥