मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १६

संहिता

नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥

पदपाठः

नृऽभिः॑ । ये॒मा॒नः । ह॒र्य॒तः । वि॒ऽच॒क्ष॒णः । राजा॑ । दे॒वः । स॒मु॒द्रियः॑ ॥

सायणभाष्यम्

नृभिः कर्मनेतृभिः येमानः नियम्यप्रानः हर्यतः स्पृहणीयः विचक्षणोविद्रष्टा देवोदीप्य- मानः समुद्रियः अन्तरिक्षेभवः राजा सोमः इन्द्रार्थं पवतइत्युत्तरेण संबन्धः समुद्राभ्राद्घ- इति भावार्थे घप्रत्ययः ॥ १६ ॥