मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १७

संहिता

इन्द्रा॑य पवते॒ मद॒ः सोमो॑ म॒रुत्व॑ते सु॒तः ।
स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यवः॑ ॥

पदपाठः

इन्द्रा॑य । प॒व॒ते॒ । मदः॑ । सोमः॑ । म॒रुत्व॑ते । सु॒तः ।
स॒हस्र॑ऽधारः । अति॑ । अव्य॑म् । अ॒र्ष॒ति॒ । तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

सायणभाष्यम्

मदोमादकः सुतोभिषुतः सोमः मरुत्वते मरुद्भिस्तद्वते इन्द्रायेद्रार्थं पवते क्षरति ततः सहस्रधारः बहुधारोपेतः सोमः अव्यं अविमयं पवित्रमत्यर्षति अतिगच्छति तं ईमिमं सोमं आयवोमनुष्याऋत्विजः मृजन्ति शोधयन्ति ॥ १७ ॥