मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १८

संहिता

पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।
अ॒पो वसा॑न॒ः परि॒ गोभि॒रुत्त॑र॒ः सीद॒न्वने॑ष्वव्यत ॥

पदपाठः

पु॒ना॒नः । च॒मू इति॑ । ज॒नय॑न् । म॒तिम् । क॒विः । सोमः॑ । दे॒वेषु॑ । र॒ण्य॒ति॒ ।
अ॒पः । वसा॑नः । परि॑ । गोभिः॑ । उत्ऽत॑रः । सीद॑न् । वने॑षु । अ॒व्य॒त॒ ॥

सायणभाष्यम्

चमू सप्तम्याः पूर्वसवर्णदीर्घः चम्वोरधिषवणफलकयोः पुनानः पूयमानः अभिषूयमा- णः मतिं स्तुतिं जनयन् उत्पादयन् कविः क्रान्तप्रज्ञः एतादृशः सोमः देवेष्विन्द्रादिषु र- ण्यति । किंच अपोवसतीवरीर्वसानः आच्छादयन् वनेषु काष्ठेषु पात्रेषु सीदन् उत्तरः उत्कृ ष्टतरः सोमः गोभिर्गोविकारैः क्षीरादिभिः पर्यव्यत परिदीयते आच्छाद्यते ॥ १८ ॥