मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १९

संहिता

तवा॒हं सो॑म रारण स॒ख्य इ॑न्दो दि॒वेदि॑वे ।
पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥

पदपाठः

तव॑ । अ॒हम् । सो॒म॒ । र॒र॒ण॒ । स॒ख्ये । इ॒न्दो॒ इति॑ । दि॒वेऽदि॑वे ।
पु॒रूणि॑ । ब॒भ्रो॒ इति॑ । नि । च॒र॒न्ति॒ । माम् । अव॑ । प॒रि॒ऽधीन् । अति॑ । तान् । इ॒हि॒ ॥

सायणभाष्यम्

हे इन्दोहे सोम तव सख्ये सखिकर्मण्यहं दिवेदिवे अन्वहं रारण रमे रणेर्लिटउत्तमे णलि रूपम् । हे बभ्रो बभ्रुवर्ण सोम पुरूणि बहूनि रक्षांसि मां तत्र सख्ये स्थितं न्यव- चरन्ति नीचीनं चरन्ति बाधन्ते ये मां बाधन्ते तान् परिधीन् राक्षसांस्त्वं अतीहि अतीत्य गच्छ जहीति यावत् ॥ १९ ॥