मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २१

संहिता

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।
र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

पदपाठः

मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ ।
र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥

सायणभाष्यम्

हे सुहस्त्य हस्ते भवाहस्त्या अंगुलयः शोभनांगुलिक सोम मृज्यमानः शोध्यमानस्त्वं समुद्रेन्तरिक्षे कलशे वा वाचं शब्दमिन्वसि प्रेरयसि । किंच हे पवमान पूयमान सोम पिशंगं हिरण्यैः पिशंगवर्णं बहुलं प्रभूतं पुरुस्पृहं बहुभिः स्पृहणीयं रयिं धनं अभ्यर्षसि स्तोतॄणांअभिक्षरसि प्रयच्छसि ॥ २१ ॥