मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २२

संहिता

मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।
दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥

पदपाठः

मृ॒जा॒नः । वारे॑ । पव॑मानः । अ॒व्यये॑ । वृषा॑ । अव॑ । च॒क्र॒दः॒ । वने॑ ।
दे॒वाना॑म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒ऽकृ॒तम् । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥

सायणभाष्यम्

हे सोम वृषा वर्षिता त्वं मृजानः वसतीवरीभिर्मृज्यमानः अलंक्रियमाणः अव्यये अवि मये वारे वाले पवित्रे पवमानः पूयमानः सन् वने वननीये उदके काष्ठे कलशेवा अव- चक्रदः अवक्रन्दसि शब्दायसे । ततो हो सोमः हे पवमान त्वं गोभिर्गव्यैः क्षीरादिभिः अंजानः अज्यमानः सन् निःकृतं संस्कृतं देवानां स्थानं अर्षसि गच्छसि ॥ २२ ॥