मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २३

संहिता

पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।
त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्य॑ः सोम मत्स॒रः ॥

पदपाठः

पव॑स्व । वाज॑ऽसातये । अ॒भि । विश्वा॑नि । काव्या॑ ।
त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः॑ । सो॒म॒ । म॒त्स॒रः ॥

सायणभाष्यम्

हे सोम विश्वानि सर्वाणि काव्या कविकर्माणि स्तोत्राणि अभिलक्ष्य वाजसातये अन्न- लाभाय पवस्व क्षर । हे सोम देवेभ्यः देवानां मत्सरोमदकरः प्रथमः सर्वदेवानां मूख्यः त्वं समुद्रं अन्तरिक्षं कलशं वा विधारयः विशेषेण धारयसि ॥ २३ ॥