मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २४

संहिता

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।
त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभि॑ः ॥

पदपाठः

सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । दि॒व्या । च॒ । सो॒म॒ । धर्म॑ऽभिः ।
त्वाम् । विप्रा॑सः । म॒तिऽभिः॑ । वि॒ऽच॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

हे सोम सतादृशस्त्वं पार्थिवं रजोलोकं प्रति दिव्या दिव्यानि च रक्षांसि वर्मभिर्धा- रकैः सह तुक्षिप्रं परिपवस्व परितः क्षर । हे विचक्षण विद्रष्टः सोम विप्रासोविप्रामेधा- विनोमतिभिः स्तुतिभिः धीतिभिरंगुलीभिश्च शुभ्रं श्वेतवर्णं त्वां हिन्वन्ति प्रेरयन्ति ॥ २४ ॥