मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २५

संहिता

पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।
म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥

पदपाठः

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । प॒वित्र॑म् । अति॑ । धार॑या ।
म॒रुत्व॑न्तः । म॒त्स॒राः । इ॒न्द्रि॒याः । हयाः॑ । मे॒धाम् । अ॒भि । प्रयां॑सि । च॒ ॥

सायणभाष्यम्

पवमानाः पूयमानाः सोमाः धारया आत्मीयया पवित्रं अतीत्यासृक्षत सृज्यन्ते । की दृशामरुत्वन्तः मरुद्भिर्युक्तामत्सराः मदकराः इन्द्रियाः इन्द्रजुष्टाः मेधां स्तुतिं प्रयांस्य- न्नानिच अभिलभ्या स्तोतृभ्यउभयं कर्तुं वा हयाः गन्तारः एते सृज्यन्ते ॥ २५ ॥