मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १

संहिता

पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।
महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥

पदपाठः

पव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ ।
महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥

सायणभाष्यम्

हे सोम मधुमत्तमः अत्यन्तं माधुर्योपेतः त्वं इन्द्राय इन्द्रार्थं मदोमदकरः सन् पवस्व क्षर । कीदृशः क्रतुवित्तमः अत्यन्तं प्रज्ञायाः कर्मणोवा लंभकः महि महान् मंहनीयोवा द्युक्षतमः अत्यन्तं दीप्तः मदः मदहेतुः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७